350

न सर्व्वात्मनाऽभेद1715 स्तयोः सामान्यविशेषोरपि कथञ्चिद् भेदो
भवेद्
यदि
(।) अन्यथा सामान्यविशेषभावानुपपत्तिः । अत्राह । येनात्मना स्वरूपेण
साधारणेन चासाधारणेन च तयोः सामान्यविशेषयोर्भेदः सामान्यं विशेष इत्येतद् व्यवस्थाप्यते । तेनात्मना साधारणासाधारणेन यदि भेदस्तदा भेद एव तयोः स्यात्
भिन्नलक्षणत्वात् ।

तथा च स्यान्निःसामान्यविशेषता ॥ १७७ ॥
भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् ।

तथा च निःसामान्यविशेषता समान्यविशेषरूपताऽभावः सामान्यवि

शेषयो1716रभितयोः स्यात् । यद्वद् घटादीनां विशेषाणां परस्परं न सामान्य
विशेषता ।1717 विशेषः स्व(लक्षण)रूपमनुगामि सामान्यं तदेवानुगामि विशेष
उच्यते (।) यदि तु तयोर्भेद एव न सामान्यविशेषभावः स्यात् ।1718

यमात्मानं पुरस्कृत्य पुरुषोयं प्रवर्तते ॥ १७८ ॥
तत्साध्यफलवाञ्छावान् भेदाभेदौ तदाश्रयौ ।
चिन्त्यते स्वात्मना भेदः ;

अपि चायं व्यवहारी पुरुषो यमर्थस्यात्मानं स्वभावं पुरस्कृत्य प्रवृत्तिविषय
त्वेनाग्रहं कृत्वा तत्साध्यफलवाञ्छावान् अर्थसाध्यफलसमीहायु
क्तः सन
1719 प्रवर्त्तते (।) तदाश्रयौ तदर्थविषयौ भेदाभेदौ शास्त्रकारैश्चिन्त्येते । न त्वर्थक्रिया
नुपयुक्तसामान्यविषयौ (।) तेषाञ्चार्थक्रियाकारिणां पुरुषप्रवृत्तिविषयाणामर्थानां
स्वात्मना स्वरूपेण भेदः ।1720

कथं तर्ह्येकबुद्धिशब्दविषयतेत्याह ।

व्यावृत्त्या च समानता ॥ १७९ ॥
अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ।
  1. सामान्यं विशेष इति भेदस्थापनात् ।

  2. भेदो निःसामान्यः सामान्यं निर्व्विशेषः ।

  3. अजन्यजनकत्वेन सम्बन्धाभावात् ।

  4. दिगम्बरस्योर्ध्वतासामान्यं सांख्यस्य तिर्यक् एकदोषेण (देशिनं) निरस्य तिर्यक्सामान्यं पुनराह ।

  5. अर्थार्थिनः सामान्यस्य भेदाभेदचिन्तया न कि(ञ्चि)दनर्थत्वात् ।

  6. आत्यन्तिकोस्त्येव ।