विजातीयाद् व्यावृत्या च सा समानताऽस्त्येव । स्वस्वभावनियतन्तु स्वलक्षणं
वस्तु नान्वेति सर्व्वत्र प्रवृत्त्यादिप्रसङ्गतः । अग्निरपि
श (=स) लिल1721स्व
भाव एवेति श (=स) लिलार्थी तत्रापि प्रवर्त्तेत । तस्मात् स्थितमेतत् (।) न
किञ्चित् किमप्यन्वेतीति1722 ।
ग. जैनमतनिरासः
एतेन सां ख्य मतनिराकरणेनैवाह्रीका दि ग म्ब रा1723
यत्
स्यादुष्ट्रो दधि
वस्तुत्वात् । न वा स्यादुष्ट्रो1724 विशेषरूपतये ति । किमप्ययुक्ततया हेयोपादेयविष
यापरिनिष्ठानादाकुलं प्रलपन्ति तदपि प्रतिक्षिप्तमेकान्तस्य भेदस्य सम्भवात् ।
आकुलत्वमेवाख्यातुमाह ।
सर्व्वस्य वस्तुन उभयरुपत्वे1725 स्वपररूपत्वे सति तद्विशेषस्य दध्येव दधिनोष्ट्र69b
उष्ट्र एवोष्ट्रो न दधीत्यस्य भेदस्य निराकृतेः । दधि खादेति चोदितो नियोज्यः
किमुष्ट्रं प्रति नाभिधावति ।
अथास्ति दध्नः सकाशाद् उष्ट्रस्यातिशयो विशेषः कश्चिद् येन विशेषेण
चोदितेन भेदेन प्रतिनियमेन दधिशब्दाद् दध्न्येव उष्ट्रशब्दादुष्ट्र एव प्रवर्त्तते (।)
एवन्तर्हि स
विशेष एवान्यत्रासम्भवी उष्ट्रो विशेषो दधिलक्षणोऽन्यत्र वस्तुनि
नास्तीति सर्व्वं वस्त्वनुभयं1726 न स्वपररूपं किन्तु परमेव परस्मात् ।
-
अथ स्वलक्षणमन्वेष्यतीति किं कल्पितव्यावृत्त्यापीत्यपि न परस्परं भेदात् ।
↩
यदि घटः पटे स्यादुदकार्थी पटेपि प्रवर्त्तेत न चास्तीति न प्रवृत्त्यादिना तुल्योत्पत्ति
निरोधादि । -
सामान्यविशेषयोर्वस्तुत एकत्वात् कृतकानित्यत्वानि वा
↩
व्यभिचारो व्यावृत्तस्वलक्षणस्यैव सामान्यत्वात् बौद्धे । -
सर्वः सर्वस्वभावो न च सर्वस्वभावः ।
↩ -
दध्यवस्थायां ।
↩ -
दध्यादेरुष्ट्रादिषु तादात्म्यानुगमात् ।
↩ -
स्वरूपभेदवल्लक्षणभेदश्चेत् न च द्रव्यत्वं द्रव्यादिव्यतिरिक्तं भावि ।
↩