(२) अनुपलब्धिश्चतुर्विधा

सा च प्रयोगभेदादनुपलब्धिश्चतुर्व्विधा कथमित्याह ।

विरुद्धकार्ययोः सिद्धिर/?/ हेतु/?/भायोः ।
दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्व्विधा ॥ ३ ॥

विरुद्धञ्च कार्यञ्च विरुद्धकार्ये कार्यञ्च । प्रत्यासत्तेर्व्विरुद्धस्यैव बोद्धव्यं ।
तयोर्दृश्यात्मनोर्हेतुभावयोः कारणस्वभावयोश्च दृश्यात्मनोर्यथाक्रमं सिद्धिरुप
लब्धिरसिद्धि
रनुपलब्धिश्च ।

विरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शोऽग्नेः । व्याप्यव्यापकयोर्वस्तुतस्तादात्म्यात् ।
1293 व्यापकविरुद्धोपलब्धिरप्यनेनैवोक्ता भवति । यथा नात्र तु1294षारस्परर्शोऽग्नेः ।
विरु1295द्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमात् । कारणा1296नुपलब्धिर्यथा नात्र
धूमोऽनग्नेः । स्वभावानुपलब्धिर्यथा नात्र धूमोनुपलब्धेः । अनेन व्यापकानुपलब्धिर
प्युक्ता1297 यथा नात्र शिंशपा वृक्षाभावात् ।

चतुर्व्विधाप्यनुपलब्धिरभावार्था प्रतिषेधफला (।) तत्र स्वभावानुपलब्धिः
स्वयमेव प्रतिषेध्याभावरूपतया सिद्धाऽभावव्यवहारसाधनी । इतरास्तु निषेध्या
भावाव्यभिचारिण्यःतदभावमभावव्यवहारञ्च साधयन्ति । तस्यासिद्धत्वात् । (३)

  1. कारणाभावस्यैव ख्यापनात् ।

  2. अस्य व्यापकं शीतं ।

  3. एकप्रकारैवेयं ।

  4. प्रभेदोस्याः कारणविरुद्धोपलब्धिः कारणविरुद्धकार्य्योपलब्धिश्च प्रतिषेध्यकारणानुपलम्भसाधनात् । वह्निर्विरुद्धं शीतं निवर्त्तयन् तत्कार्यं निवर्त्तयति (।)

  5. स्वभावाभावस्यैव प्रतिपादनात्