361 विकल्पवासनाप्रभवत्वात् । तदध्यवसायेन तद्विषयत्वात् । तत्र भावोपादानो विकल्पः पटादिरभावोपादानः शशविशा (?षा) णादिः । उभयोपादानः प्रधाने
श्वरादिः ।

तस्मिन् भावानुपादाने साध्येऽस्यानुपलम्भनम् ॥ २०५ ॥
तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगतः ।

तस्मि
न्
शब्दार्थे प्रधानादौ भावानुपादाने भावभूतप्रधानाश्रये साध्येऽस्य71b
प्रधाना1790देस्तथा (बाह्य) भावाश्रयत्वेनानुपलम्भनं हेतु1791र्व्यवहारसाधनः । न तु
तस्य1792 शब्दार्थस्यैवाभावः प्रधानादिशब्दस्य तत्प्रतिपादकस्य प्रयोगतः1793 ॥

यदि तु वस्त्वेव शब्दविषयस्तदा (।)

परमार्थैकतानत्वे शब्दानामनिबन्धना ॥ २०६ ॥
न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ।

परमार्थै1794कतानत्वे परमार्थैकपर(वृत्ति)त्वे शब्दानामर्थेषु दर्शनान्तरभेदिषु प्रतिदर्शनं भिन्नाभ्युप1795
मेन नित्यत्वानित्यत्वत्रिगुणीमयत्वादिकल्पितभेदेषु
अनिबन्धना
परमार्थनिबन्धनरहिता प्रवृत्तिर्न स्यात् । न हि परस्परविरुद्धा बहवो
धर्मा एकत्र सन्ति ।

अतीताजातयोर्वापि न च स्यादनृतार्थता ॥ २०७ ॥
वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता ।

अतीताजातयोर्व्वप्यसतोर्न स्याच्छब्दवृत्तिः । न च कस्याश्चिद् वाचोऽनृ
तार्थता स्यात्
 । अर्थमन्तरेण शब्दाभावात् । यस्मादेते दोषा वस्तुविषयत्वे वाच
इति तस्मादेषा बौद्धा1796र्थविषया कल्पि1797तार्थगोचरा मता ।

यश्च शब्दार्थः
तस्य भावानुपादानत्वं साध्यते न तु स एव निषिध्यतेऽन्यथा (।)

शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः ॥ २०८ ॥
न साध्यः समुदायः स्यात् सिद्धो धर्मश्च केवलः ।
  1. बुद्धिवर्त्तिनो धर्मिणः ।

  2. प्रधानादिविकल्पप्रतिभासस्य बाह्योपादानत्वानुपलम्भोस्तीति नापक्षधर्मः ।

  3. विकल्पस्थस्य ॥

  4. यदि स्वलक्षणमभिधेयं स्यात् तदा तत्प्रतिषेधेऽनर्थकस्य शब्दस्याप्रयोगः
    स्यात् न चैतत् ।

  5. स्वलक्ष (त्वे)

  6. सिद्धान्त (त्वे) ।

  7. वाक् ।

  8. विकल्पभासी ।