364 विषशमनतक्षकफणारत्नालङ्कारोपदेशकमिव पुरुषार्थस्य स्वर्गापवर्गस्याभिधायकं न तु काकदन्तपरीक्षोपदेशकमिव परीक्षायां प्रवृत्त्यर्हविषयमधिकृतं वाक्यं ।
अतोऽपरमनधिकृतम
नवधानार्हत्वात् ।

प्रत्यक्षेणानुमानेन द्विविधेनाप्यबाधनम् ।
दृष्टादृष्टार्थयोरस्याविसंवादः तदर्थयोः ॥ २१५ ॥

अस्य च परीक्षार्हस्य वाक्यस्याविसम्वादः तदर्थयो1812 रागमाभिधेययोर्दृष्टा
दृष्टयोः
प्रत्यक्षा
प्रत्यक्ष1813 योरर्थयोः प्रत्यक्षेणानुमानेनद्विविधेनेति वस्तुबलभाविना
ऽगमाश्रयेण चाबाधनमन्येषाञ्च बाधनं नाम । यथा प्रत्यक्षत्वेन सम्मतानां पञ्चानां
स्कन्धानां प्रत्यक्षेणाबाधनं सिद्धिरेव अप्रत्यक्षत्वेनेष्टानां शब्दादि1814त्रिगुणमयत्व
द्रव्यकर्मसामान्यसंयोगादीनाञ्च तेन बाधनं1815 । अनुमेयत्वेनेष्टानां चतुरार्यसत्यानां
वस्तुबलप्रवृत्ते1816नानुमा
नेनाबाधनं सिद्धिरेव । अननुमेयत्वेनेष्टानाञ्चात्मेश्वरा
दीनामनुमानेन1817 बाध एव । अत्यन्तपरोक्षाणां रागादिहेतुकाऽधर्मप्रहाणादीनामा
गमाश्रयानुमानेनाबाधनं सिद्धिरेवं1818 रागादिहेतुत्वेनेष्टस्य हेतुत्वानुपरोधिनः
स्नोनोवासाग्निहोत्रादेः प्रहाणोपायतयाऽनुपदेशात् हेतुव्याघातस्योपायत्वेनोपदेशा
च्चैवं
विधमबाधनमविसम्वाद इष्टः ।

आप्तवादाविसंवादसामान्यादनुमानता ।
बुद्धेरगत्याऽभिहिता निषिद्धाप्यस्य गोचरे ॥ २१६ ॥

तस्यैवं भूतस्याप्तवादस्यादृष्टव्यभिचारस्याविसम्वादसामान्यात्1819 प्रत्यक्षानु
मानागम्येप्यर्थे उत्पन्नाया बुद्धेरविसम्वादादनुमानता चा चार्य दि ग्ना गे नाभिहिता

  1. गुणत्रययुक्तञ्च यद्यविसंवादि तदा प्रवर्तित्तव्यमित्यविसम्वादमाह ।

  2. प्रत्यक्षानुमानविषययोः ।

  3. सां ख्ये शब्दादिस्वभावानां सुखदुःखमोहानां प्रत्यक्षेणाप्रतीतेः । वैशेषिका
    देर्द्रव्यमाकाशादि । अनेकद्रव्यञ्च द्रव्यमवयवी । कर्मोत्क्षेपणादि । सामान्यं सत्ता
    गोत्वादि । आदिना विभागादि ।

  4. नीलादिव्यतिरेकेणानुपलब्धेः ।

  5. आगमापेक्षेण ।

  6. लिङ्गाभावान्नानुमेयता ।

  7. रागद्वेषादिस्वभावमधर्मन्तदुत्थं कायकर्मादि चाधर्ममभ्युपेत्य स्नानाद्य
    नुक्तेः ।

  8. शक्यपरिच्छेदेऽविसम्वादवत्परोक्षेप्याप्तवादाल्लिङ्गादुत्पन्नायाः सम्वादबुद्धेर
    नुमानता ।