अथ संकेतात् सतोपि तस्य सम्बन्धस्याभिव्यक्ति (ः) प्रदीपादिवद् घटादेरतो
नागृहीतव्यञ्जकस्य व्यङ्ग्यप्रतीतिः । तदा (।)
संङ्केतात् तस्य सम्बन्धस्याभिव्यक्ताविष्यमा1837णायां संकेतादन्यस्य सम्बन्धस्य
कल्पनाऽसमर्था सम्बन्धव्यवस्थापनाय । संकेतादेव वाच्यवाचकभावस्य कल्पितस्य
घटमानत्वात् हस्तसंज्ञादेरिवार्थप्रतिपादनस्य । (२२७)
किञ्च (।) वाचा किमेकेनार्थेन सह वाच्यवाचकसम्बन्धः । अथानेकैः ।
तत्र1838 (।)
गिरामेकस्मिन्नर्थे वाचकतया नियमे सति संकेतवशादन्यत्रार्थे न स्याद् गतिः ।
दृश्यते च वि
वक्षातोऽनेकार्थाभिधानम्1839 ॥
अनेकैरर्थैर्व्वाचकत्वाभिसम्बन्धे विरुद्धस्यार्थस्य व्यक्तेः1840 प्रतीतेः सम्भवः स्यात् । अग्निष्टोमः स्वर्गस्य साधनमिति विपर्ययोप्यवसीयेत1841(।) ततश्चा
प्रवृत्तिरेव स्यात् स्वर्गीर्थिनः । (२२८)
अथानेकार्थाभिधाय्यपि शब्दः पुरुषेण सङ्केतादभिमतार्थाभिधायित्वेन निय
म्यते तदा (।)
अपौरुषेयतायाञ्च व्यर्था परिकल्पना स्यात् । तदभ्युपग
मेपि पुरुषस्वातन्त्र्या
भ्युपगमात् । तदार्थेभ्यो भिन्नानां शब्दानां तैः सह सम्बन्धस्य व्यवस्थितेः1842 । हेतुश्च
-
प्रतीत्यन्यथानुपपत्त्या सम्बन्धकल्पनमत्यर्थेपि चेन्न प्रतीतिः किन्तत्कल्पनया संकेत एवान्वयव्यतिरेकात् ।
↩ -
नित्ये सम्बन्धदोषमाह ।
↩ -
अनेकार्थप्रतिपादनस्य दर्शनात् सर्व्वे सर्व्वार्थवाचकाश्चेत् ।
↩ -
अभिमत एव समय इत्यनियमात् सर्व्ववाचकत्वे किं स्वर्गसाधन एवाग्नि
↩
होत्रादिसंकेतः किम्वा तद्विरुद्धे बुद्धिमान्द्यादिति संशयात् । -
द्विधा शब्दविषयः साक्षाज्जातिस्तल्लक्षिता च व्यक्तिरिति व्यक्त्या सम्बन्धे सम्बन्धीत्यादि ।
↩ -
व्यवस्थाय (ा)ः षष्ठी ।
↩