282

तृतीयः परिच्छेदः

स्वार्थानुमानं

प्रत्यक्षमाख्यायावसरप्राप्तमनु1274मानमिदानीम्वक्तव्यं (।) तच्च द्विविधं (।)
स्वार्थं परार्थञ्च । तत्र स्वार्थमिदानीं वक्तव्यं एतत्पूर्वकत्वात् परार्थस्य ।

१---हेतुचिन्ता

(१) हेतुलक्षणम्

तल्लिङ्गे विप्रतिपत्तयः सन्तीति तासां निराकरणेन तद्व्यवस्थापनार्थमाह ।

पक्ष1275धर्मस्तदंशेन व्याप्तो हेतुः ;

पक्षो धर्मिधर्मसमुदायोनुमेयः । तदेकदेशत्वा
दुपचारेण1276 धर्मी पक्ष उक्तः ।
तस्य धर्मः (।) अनेन पक्षधर्मत्वमुक्तं । धर्मिधर्मो हेतुरित्यनुमाने सर्व्वस्य धर्म्मि
धर्म्मो हेतुः स्यादित्युपचाराश्रयणं । तथा चाक्षु1277षत्वादिः शब्दे धर्मिणि न हेतुः ।
तदंशेन पक्षस्य धर्मेण1278 सिसाधयिषितेन व्याप्तो हेतुर्बोद्धव्यः । द्विविधा चेयं
व्याप्तिर्व्यापकव्याप्यधर्मतया । तत्र व्याप्ये सति व्यापकस्यावश्यम्भाव1279स्तस्य
व्याप्तिः । व्याप्यस्य च व्याप
क एव1280 सति भावो नाम तस्य व्याप्तिः । आभ्यां

  1. निरोधमार्गप्राप्तिदुःखसमुदयपरिहारार्थत्वादस्यैव ।

  2. श्लोकेत्र लिङ्गलक्षणं संख्या(त्रिधैव)नियमः (अविनाभावनियमात्) संख्यानियमकारणं विपक्षनिवृत्ति(हेत्वाभास)श्चोक्तो

  3. तदंशत्वेन सम्बन्ध उक्तः ।

  4. यथा रूपमिति दृष्टान्तधर्मिधर्म एव हेतुः स्यादन्यथा ।

  5. धर्मिमात्रस्य पक्षत्वाद् धर्मी च वन्ह्यादिः साध्य एव तदंशो विवक्षावशाद् यदा तु समुदायः पक्षस्तदा तदंश एकदेश एव ।

  6. इति व्याप्यधर्म उक्तो व्याप्ये धर्मिणि व्याप्तिर्द्धर्मः ।

  7. व्यापकधर्मोऽत्र व्याप्तिमत्वात् धर्मत्वं व्याप्तेः ।