413

स्वार्थानुमानं
व्याख्याय परार्थानुमानं व्याख्यातुमाह (।)

81b

तत्र परार्थानुमानं2129 स्वदृष्टार्थप्रकाशनमित्याचार्यीयलक्षणं । स्वेन2130
दृष्टः स्वदृष्टः । स्वदृष्टश्चासावर्थश्चेति त्रिरूपो हेतुः । तस्य प्रकाशनम्वचनं
अनुमानहेतुत्वादित्यर्थः ।

१. परार्थानुमानलक्षणम् (दिग्नागस्य)

(१) तत्र स्वदृष्टग्रहणफलम्

क. परमतनिरासाय

ननु त्रिरूपलिङ्गाख्यानमित्येवास्तु किं स्वदृष्टग्रहणेनेति शङ्कायां परम
तनिरासार्थतामस्य दर्शयितुमाह ।

परस्य प्रतिपाद्यत्वात् अदृष्टोपि स्वयं परैः ।
दृष्टसाधनमित्येके तत्क्षेपायात्मदृग्वचः ॥ १ ॥

परस्य परार्थानुमानेन प्रतिपाद्यत्वात् साधन
वादिना स्वयमदृष्टोपि प्रमाणेन
परैः
प्रतिवादिभिरागमाद् दृष्टसाधनं लिङ्गमित्येके सां ख्याः । ते हि सुखादी
नामुत्पत्तिमत्वादनित्यादचेतनत्वं रूपादीनामिव बौद्धं प्रत्याहुः । न ह्यसत उत्पत्ति
मत्वं सतश्च निरन्वयविनाशोऽनित्यत्वं हेतुः सांख्यासिद्धः । बौद्धस्य पुनरागमात्

  1. [तत्रैव]---परार्थमनुमानं तु ।

  2. वादिप्रतिवादिभ्यामिति प्रकरणात् ।