415 तावदवयवत् आगमोपि पुरुषस्य सहजसम्बन्धेन
सम्बद्धः2131 । नापि युक्त्युपपन्नयतो2132
पाधिना2133 प्रत्यक्षानुमानवत् सम्बन्धः । तथा हि प्रमाणेनोत्पत्तिमत्वादिलिङ्गजेना
नुमानेनागमप्रतिपादितस्य सुखादिचैतन्यस्य बाधनात् बाध्यमान आगमः हेतुः ।
कथमागमसिद्धो
येन युक्तिसम्वादोपाधिनापि पुरुषेण सम्बन्धमनुभवेत् । (४)

स्यादेतत् । सुखादीनामचैतन्यं तेनैवागमेन प्रदेशान्तरे दर्शितमतोऽबाध्यत्वात्
प्र7माणादस्मात् साधनविधिर्युक्त इत्याह ।82a

तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् ।
तदन्योपगमे तस्य त्यागांगस्याप्रमाणता ॥ ५ ॥

तस्माच्चैतन्यात् प्रतिपादिताद् विरुद्धस्याचैतन्यस्याभ्युपगमस्तेन चैतन्यप्रति
पादकेनैव चागमेन कथम्भवेत् । सम्भवे वा विरुद्धार्थाभिधायित्वेनाप्रमाणादागमा
द्धेतुसिद्धिरयुक्तैव (।) आगमप्रतीतेनोत्पत्तिमत्त्वादिना । तस्मादागमोक्त चैतन्या
दन्य
स्याचैतन्यस्योपगमे स्वीकारे वा प्रतिवादीना क्रियमाणे तस्यागमस्य
त्यागां
गस्याप्रमाणता
ऽभ्युपगता स्यात् (।) यदैवागमप्रामाण्यस्य बाधके हेतावाद्रियते तदैव
तत्र संशयितः । न चाप्रमाणाद्धेतुसिद्धिः ॥ (५)

किञ्च (।)

तत् कस्मात् साधनं नोक्तं स्वप्रतोतिर्यदुद्भवा ।
युक्त्या ययागमो ग्राह्यः परस्यापि च सा न किम् ॥ ६ ॥

अयम्वादी तावत् स्वयम्प्रतीतमेवाचैतन्यं पर2134स्मै प्रतिपादयति । व च साधन
मन्तरेणैव प्रतीतिः । ततः प्रतिपादयितुः2135 स्वस्य प्रतीतिश्चैतन्यविषया यस्मात्
साधनादुद्भवो यस्याःसा यदुद्भवा । तत्साधनं स्वागमादिकं कस्मात्2136 प्रतिपाद्यं प्रति
नोक्तं । स्वयं प्रतिपन्नसामर्थ्यमेव साधनं वक्तुमुचितं । तथा निर्युक्तिकस्यागमस्या
प्रामाण्यात् यया युक्त्योपपन्न आगमः साधनत्वेन गाह्यो वादिना सा युक्तिः परस्य प्रतिपाद्यस्यापि किन्न साधनयेन तत्परित्यज्यान्यदप्रमाणसिद्धमुत्पत्त्याद्युच्यते । (६)

अथ योगबलजेन प्रत्यक्षेण सुखादीनामचैतन्यं प्रतीतं2137 न तदन्यथा प्र
तिपादयितुं
परस्य शक्यत इति परोपगतं साधनमुच्यते ॥

  1. तादात्मा(?त्म्या)भाव उक्तः ।

  2. तदुत्पत्तेः ।

  3. अस्येदमिति ।

  4. अज्ञातं ममेति वचने उपहसनीयः स्यात् ।

  5. सांख्यस्य ।

  6. तदुत्पत्तेः ।

  7. कपिलऋषिणा ।