३. शब्दाप्रामाण्यचिन्ता

(१) शास्त्रविरोधोऽकिञ्चित्करः

उक्तञ्च नागमापेक्षमनुमानं स्वगोचरे ।
सिद्धं तेन सुसिद्ध तन्न तदा शास्त्रमीक्ष्यते ॥ ४८ ॥

अनुमाविषये नेष्टं वाचः प्रामाण्य (३।३१०) मित्यादिनोक्तं प्राक् ।
वस्तुबलप्रवृत्तमनुमानं नागमापेक्षं स्वस्य गोचरे साध्य इति । तस्मात् तेन वस्तु
बलप्रवृत्तेनागमानपेक्षिणाऽनुमाने यत् सिद्धं सुसिद्धन्तत्तदान शास्त्रमीक्ष्यते बाधितं न वेति वस्तुबलप्रवृत्तानुमानेन तदपेक्षाभावात् । तदानुकाले शास्त्रस्या
नाश्रयणात् ।
(४८)