432

तामिच्छामकार्यलिङ्गजां कार्येतरलिङ्गामनुमेयत्वेन वदन् परो व्यभिचा
रेण बाध्यते
 । न ह्यन्योऽकार्योऽन्यं न व्यभिचरतीति नियमोस्ति । अपि च साध्य
सानित्यत्वस्यानन्तरीयकेऽर्थे आकाशगुणत्वादौ बाधितत्वेप्यन्यस्य साध्यस्य का
क्षतिः
 । न ह्यनित्यत्वमाकाशगुणत्वनान्तरीयकं येन तदभावे तदपि न स्यात् ।
कृतकत्वन्त्वनि
त्वत्यताऽव्यभिचारीति तस्मान्नानुमानमनैकान्तिकं । (४७)

३. शब्दाप्रामाण्यचिन्ता

(१) शास्त्रविरोधोऽकिञ्चित्करः

उक्तञ्च नागमापेक्षमनुमानं स्वगोचरे ।
सिद्धं तेन सुसिद्ध तन्न तदा शास्त्रमीक्ष्यते ॥ ४८ ॥

अनुमाविषये नेष्टं वाचः प्रामाण्य (३।३१०) मित्यादिनोक्तं प्राक् ।
वस्तुबलप्रवृत्तमनुमानं नागमापेक्षं स्वस्य गोचरे साध्य इति । तस्मात् तेन वस्तु
बलप्रवृत्तेनागमानपेक्षिणाऽनुमाने यत् सिद्धं सुसिद्धन्तत्तदान शास्त्रमीक्ष्यते बाधितं न वेति वस्तुबलप्रवृत्तानुमानेन तदपेक्षाभावात् । तदानुकाले शास्त्रस्या
नाश्रयणात् ।
(४८)

वादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः ।
उपायो ह्यभ्युपायेऽयमनङ्गं स तदापि सन् ॥ ४९ ॥
86b

वादत्यागः स्याच्चेत् । न वादत्यागः सिसाधयिषितैकधर्मादपरस्य शास्त्रा
भ्युपेतस्य तदा साधनोपन्यासका2200ले साध्यतयाऽनभ्युपायतोऽस्वीकारात् । ननु
शास्त्राभ्युपगमाद् यदा वादः क्रियते तदा शास्त्रार्थबाधनात् वादत्यागः स्यादेवे
त्याह । शास्त्रस्याभ्युपाये2201ऽयम्विचार2202 उपायः । ततस्तदा विचारकाले सन्नप्य
भ्युपगमोऽनङ्गं शास्त्रार्थग्रहणे गृहीतस्य त्यागः स्यात् । न वि
चारात् प्राग् ग्रहण
मभ्युपगमान्न्याय्यं । (४८)

कदा तर्हि शास्त्रेण बाधेष्यते इत्याह ।

तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् ।
चिकीर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम् ॥ ५० ॥
  1. वस्तुबलप्रवृत्ते ।

  2. स्वीकारे

  3. विचार्यग्रहात् ।