कदा तर्हि शास्त्रेण बाधेष्यते इत्याह ।

तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् ।
चिकीर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम् ॥ ५० ॥
433

शास्त्रोपदर्शिते विषय2203द्वये प्रत्यक्षपरोक्षे रूप2204नैरात्म्यादौ तदा प्रमाणप्रवृत्त्या
विशुद्धे निर्ण्णीते सति पश्चादत्यन्तपरोक्षे स्वर्गादौ शास्त्रेण शास्त्राश्रयणेनानुमानं
चिकीर्षोः सतः स हि कालोऽभ्युगम्य यदि शास्त्रबाधो न भवेत् । अतस्तदा शास्त्रेण बाधनं साध्यसाधनादेरिष्य
ते । (५०)

  1. विषयास्त्रयस्तत्र प्रत्यक्षानुमानविषयो प्राग्विचारेण विशोधनीयौ । तथा विशुद्धे पश्चाच्छास्त्रग्रहं चिकीर्षा ।

  2. रूपाद्यक्षस्यान्यदनुमायाः ।