433

शास्त्रोपदर्शिते विषय2203द्वये प्रत्यक्षपरोक्षे रूप2204नैरात्म्यादौ तदा प्रमाणप्रवृत्त्या
विशुद्धे निर्ण्णीते सति पश्चादत्यन्तपरोक्षे स्वर्गादौ शास्त्रेण शास्त्राश्रयणेनानुमानं
चिकीर्षोः सतः स हि कालोऽभ्युगम्य यदि शास्त्रबाधो न भवेत् । अतस्तदा शास्त्रेण बाधनं साध्यसाधनादेरिष्य
ते । (५०)

तदपि करमाच्छास्त्रबाधेष्यत इत्याह । (।)

तद्विरोधेन चिन्तायास्तत्सिद्धार्थेष्वयोगतः ।
तृतीयस्थानसंक्रान्तौ न्याय्यः शास्त्रपरिग्रहः ॥ ५१ ॥

स्य शास्त्रस्य विरोधेन तत्सिद्धेष्वर्थेषु लिङ्गादिष्वसिद्धकल्पेषु गमक
चिन्ताया अयोगतः । यस्मात् प्रत्यक्षपरोक्षार्थयोर्नागमाधिकारः तस्मात् तृती
यस्थाने
ऽतीन्द्रिये विषये विचारसंक्रान्तो शास्त्रपरिग्रहो न्याय्यः । प्रकारान्तराभा
वात् । (५१)

तत्रापि साध्यधर्मस्य नान्तरीयकबाधनम् ।
परिहार्यं न चान्येषामनवस्थाप्रसङ्गतः ॥ ५२ ॥

तत्र शास्त्रे परिग्रहेपि तदा साधयितुमारब्धस्य साध्यधर्मस्य यन्नान्तरीय
कं
सम्बद्धं यथा क्षणिकत्वस्य नैरात्म्यं तस्य बाधनं परिहार्यं । वस्तुतस्तादात्म्यादनयो
र्नैरात्म्यबाधने क्षणिकत्वबाधनप्रसङ्गात् । न त्वन्येषां साध्यस्याकारणाव्यापक
भूतानां धर्माणां बाधनं परिहार्यमनवस्थाप्रसङ्गतः । न हि शास्त्रदर्शितसम्भवधर्म
व्याप्तिलिङ्गस्य दृष्टान्ते दर्शयितुं शक्यते येन कश्चिदागमाश्रयो हेतुरव
तिष्ठेत । (५२)

ननु शास्त्र
मनपेक्ष्य न वादः कर्त्तव्य इति वस्तुबलप्रवृत्तानुमानेपि शास्त्रा
पेक्षेत्याह ।

केनेयं सर्वचिन्तासु शास्त्रं ग्राह्यमिति स्थितिः ।
कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानलः ॥ ५३ ॥

सर्व्वासु परोक्षात्यन्तपरोक्षार्थचिन्तासु शास्त्रं ग्राह्यमिति केनेयं स्थितिः कृता
(।) नैतदनुमन्यन्ते विद्वान्सः । इदानीमविदुषामस्मिन्नभ्युपगमेऽसिद्धान्तैः सिद्धान्त

  1. विषयास्त्रयस्तत्र प्रत्यक्षानुमानविषयो प्राग्विचारेण विशोधनीयौ । तथा विशुद्धे पश्चाच्छास्त्रग्रहं चिकीर्षा ।

  2. रूपाद्यक्षस्यान्यदनुमायाः ।