434 विशेषाश्रयरहितैर्गोपालकादिभिर्द्धू मेन लिङ्गेन नानलो ग्राह्यः2205 । (५३)

न च कस्यचित् सिद्धान्तसम्बन्धो युक्तः ।
तथा हि सम्बन्धो भवन् सहजो
वा भवेदौपाधिको वा (।) द्वयमपि निषेद्ध्ुमाह ।

रिक्तस्य जन्तोर्ज्जातस्य गुणदोषमपश्यतः ।
विलब्धा वत केनामी सिद्धान्तविषमग्रहाः ॥ ५४ ॥

रिक्तस्य तुच्छस्य सिद्धान्तरहितस्य जन्तोर्जातस्यानेन सहज2206सम्बन्धाभाव
निमित्तमुक्तं । गुणदोषं प्रामाण्याप्रामाण्यनिबन्धनमपश्यतः2207 । अनेनौपाधिक
सम्बन्धनिमित्ताभाव उक्तः । 2208 केनानर्थपटीयसा सिद्धान्ता2209एव विषमग्रहा दुष्परिहारत्वादिमे विलब्धा 2210 वत येषु स्वामि
त्वेन जन्तवो व्यवहरन्ति ।
न हि कर्ण्णनाश(? स)मिव सिद्धान्तः प्राणसहजः । नापि दोषोर्ज्जितगुणो
पपन्नः प्रमाणमिव विचारात् प्राक् सिद्धान्तः सिद्धो येन समर्थविषयः
स्यात् । (५४)

किञ्च (।)

यदि साधन एकत्र सर्वं शास्त्रं निदर्शने ।
दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थितिः ॥ ५५ ॥

यदि साधन एकत्र सर्व्वं शास्त्रं शास्त्रार्थं निदर्शने दृष्टान्ते वादी दर्शयेत् तदा
तत् साधनं स्यात् (।) न त्वेकस्य शास्त्रदर्शितधर्मस्यान्वये । एतच्च न क्वचित्
87a साधने कर्त्तुं शक्यमिति लोकाति
क्रान्ता स्थितिरेषा । (५५)

अपि च (।)

असम्बद्धस्य धर्मस्य किमसिद्धौ न सिद्धति ।
हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति ॥ ५६ ॥

असम्बद्धस्य साधयितुमप्रवृत्तस्य धर्मस्याकाशगुणत्वादेः कृतकत्वाद्धेतोर्व्वि
पर्यासनादसिद्धौ सत्यां सिसाधयिषितं हेतुव्यापकमनित्यत्वं किं न सिध्यति । न हि
व्यापकमन्तरेण व्याप्यं भवति । हेतुस्तस्य व्यापकस्य साधनायोक्तः किन्दुष्टः

  1. शास्त्रापरिग्रहेण सिद्धिप्रतिबन्धात् ।

  2. सहजः कर्णादिवत् । औपाधिकः स्वयं गुणदोषपरीक्षयाभ्युपगच्छतः ।

  3. आगमभात्रेण ।

  4. उपहसति ।

  5. त्याजयितुमशक्यत्वात् ।

  6. अस्यायमागमो नास्येति ।