४. सामान्यचिन्ता

(१) सामान्यं व्यावृत्तिलक्षणम्

तदेव रूपं तत्रार्थः शेषं व्यावृत्तिलक्षणम् ।
अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः ॥ १३३ ॥

तत्र श्रुतिज्ञाने भासमानं तद्रूपमर्थः स्वलक्षणं । तदतिरिक्तं शेषं । धर्मिधर्मादि2278
व्यावृत्तिलक्षणमन्यव्यवच्छेदस्वभावम
वस्तुभूतं सर्व्वत्र सम्भवात् सामान्यञ्च ।
अतोऽवस्तुत्वादेस्तद्गुणजात्यादि नाक्षगोचरः । (१३३)

  1. जात्यादि ।