459
तेन समान्यधर्माणामप्रत्यक्षत्वसिद्धितः ।
प्रतिक्षेपेप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥ १३४ ॥

तेनावस्तुत्वेन कारणेन सामान्यधर्माणां प्रमेयत्वादीनामप्रत्यक्षत्वस्य
सिद्धितः
 । केनचिद्वादिना प्रत्यक्षसिद्धितः प्रतिक्षेपेपि क्रियमाणे न बाध्यबाधक
भाव इत्यश्रावण इत्यत्र श्रावणोक्त्या निषेध्यदर्शिकया प्रकाशितं स्वलक्षणबाधने
प्रत्यक्षबाधेत्यर्थः ॥ (१३४)