459
तेन समान्यधर्माणामप्रत्यक्षत्वसिद्धितः ।
प्रतिक्षेपेप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥ १३४ ॥

तेनावस्तुत्वेन कारणेन सामान्यधर्माणां प्रमेयत्वादीनामप्रत्यक्षत्वस्य
सिद्धितः
 । केनचिद्वादिना प्रत्यक्षसिद्धितः प्रतिक्षेपेपि क्रियमाणे न बाध्यबाधक
भाव इत्यश्रावण इत्यत्र श्रावणोक्त्या निषेध्यदर्शिकया प्रकाशितं स्वलक्षणबाधने
प्रत्यक्षबाधेत्यर्थः ॥ (१३४)

2279 एवं तर्हि शब्दस्व
लक्षणं नास्तीत्येव कस्मान्नोच्यते । किं श्रावणत्व2280
मुख्यं निषेध्य युक्तिरित्याह ।

सर्व्वथाऽवाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् ।
बाधनात् तद्बलेनोक्तः श्रावणेनाक्षगोचरः ॥ १३५ ॥

स्वलक्षणस्य सर्वथा केनचिच्छब्देनावाच्यत्वात्2281 मुख्यमभिधानं नास्त्येव ।
अथ सामान्यवृत्तिरपि स्वलक्षणशब्दोऽध्यवसायानुरोधात् स्वलक्षणमुपलक्षयति । एवं
श्रावणशब्दोपीन्द्रियग्राह्यतोपलक्षणं शब्दस्वलक्षणमुपलक्षयिष्यतीति न कश्चि
द्विशेषः । अथवास्त्येव श्रावणशब्देना
भिधाने प्रयोजनमित्याह । श्रोत्रेन्द्रियविषस्य
या सिद्धिस्तथा भावः । तया सिद्ध्या तस्येन्द्रियज्ञानस्य समाश्रयाच्छब्दस्य
स्वरूपव्यवस्थित्या हेतुना तेन व्यपदेश इन्द्रियज्ञानबलेन शब्दस्वरूपपावस्थितः (।)
तथाभिधानमित्यर्थः । किञ्च तस्येन्द्रियज्ञानस्य बलेन शब्दस्वलक्षणविपर्ययभावस्य2282 बाधानात् कारणात् श्रावणेनाक्षगोचरः स्वलक्षणमुक्तः । नित्यो घट इत्यनुमाने
नित्यत्वविषयेण कृतकत्वलिङ्गभुवा
बाधितः पक्षः । स चासकृद्दर्शित एवेति
नेह विपञ्चितः ॥ (१३५)

(२) स्वधर्मिग्रहणप्रयोजनम्

इदानीं प्रत्यक्षानुमानाप्तप्रसिद्धेन स्व2283धर्मिणीति स्वधर्मिग्रहणस्य साफल्य
माख्यातुमाह ।

सर्व्वत्र वादिनो धर्मो यः स्वसाध्यतयोप्सितः ।
तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि ॥ १३६ ॥
  1. इन्द्रियविषयस्वभावःस्वलक्षणं स यदि श्रावणशब्देनाभिमतः ।

  2. किं क्रियानिमित्तेनोच्यते ।

  3. स्वलक्षणस्य ।

  4. तथाभूतार्थप्रतिषेधकस्य पुरुषस्य ।

  5. वादिनेष्टस्य स्वस्य धर्मी स्वधर्मी तत्र ।