2279 एवं तर्हि शब्दस्व
लक्षणं नास्तीत्येव कस्मान्नोच्यते । किं श्रावणत्व2280
मुख्यं निषेध्य युक्तिरित्याह ।

सर्व्वथाऽवाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् ।
बाधनात् तद्बलेनोक्तः श्रावणेनाक्षगोचरः ॥ १३५ ॥

स्वलक्षणस्य सर्वथा केनचिच्छब्देनावाच्यत्वात्2281 मुख्यमभिधानं नास्त्येव ।
अथ सामान्यवृत्तिरपि स्वलक्षणशब्दोऽध्यवसायानुरोधात् स्वलक्षणमुपलक्षयति । एवं
श्रावणशब्दोपीन्द्रियग्राह्यतोपलक्षणं शब्दस्वलक्षणमुपलक्षयिष्यतीति न कश्चि
द्विशेषः । अथवास्त्येव श्रावणशब्देना
भिधाने प्रयोजनमित्याह । श्रोत्रेन्द्रियविषस्य
या सिद्धिस्तथा भावः । तया सिद्ध्या तस्येन्द्रियज्ञानस्य समाश्रयाच्छब्दस्य
स्वरूपव्यवस्थित्या हेतुना तेन व्यपदेश इन्द्रियज्ञानबलेन शब्दस्वरूपपावस्थितः (।)
तथाभिधानमित्यर्थः । किञ्च तस्येन्द्रियज्ञानस्य बलेन शब्दस्वलक्षणविपर्ययभावस्य2282 बाधानात् कारणात् श्रावणेनाक्षगोचरः स्वलक्षणमुक्तः । नित्यो घट इत्यनुमाने
नित्यत्वविषयेण कृतकत्वलिङ्गभुवा
बाधितः पक्षः । स चासकृद्दर्शित एवेति
नेह विपञ्चितः ॥ (१३५)

  1. इन्द्रियविषयस्वभावःस्वलक्षणं स यदि श्रावणशब्देनाभिमतः ।

  2. किं क्रियानिमित्तेनोच्यते ।

  3. स्वलक्षणस्य ।

  4. तथाभूतार्थप्रतिषेधकस्य पुरुषस्य ।