481 प्रयत्नोत्थत्वं शब्दे प्रसिद्धमेव । यथा बहुषु पिण्डेषु दृश्यमानेषु किमयमश्वो नवे
ति
संशयोऽभिधीयते विशा( ? षा)णवानेष पिण्डो धर्मी नाश्वो विषाणित्वादिति ।
विषाणित्वं धर्मिणं विशेषयदिप प्रमाणप्रतीतत्वान्नासिद्धो हेतुः ।

साध्यकालाङ्गता वा न निवृत्तेरुपलक्ष्य तत् ।
विशेषोपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते ॥ १८८ ॥

अथवा विशेषणस्य प्रयत्नोत्थत्वादेस्तच्छब्दरूपं विशेष्यत्वेनोपलक्ष्यानुमानात्
प्रागेव निवृत्तेः (।) साध्यकालेऽनुमेयप्रतीते कालेऽङ्गता विशेषणता नास्त्येव
अप्रतीतं ह्यनुमानात् प्रत्येतव्यं । प्रयत्नोत्थत्वादि
ति च प्रतीतं । न च तत्र
विवादः । ततो धर्मिमात्रोपलक्षणन्तत् । यथा काको देवदत्तगृहोपलक्षणत्वान्न
कार्योपयोगी (।) यद्यपि2350 विशिष्टे धर्मिणि प्रतिज्ञार्थैकदेशत्वं हेतोः । तथा नित्यः
शब्दः श्रावणत्वादिति शब्दस्वभावभूतस्य श्रावणत्वस्य शब्दत्ववत् प्रतिज्ञार्थैक
देशता स्यात् नासाधारणतेत्याह । न केवलं विषाणित्वादिर्व्विशेषः श्रावणत्वादि97b
रपि प्रतिज्ञार्थै
कदेशो न युज्यते । धर्मस्य व्यावृत्तेर्भेदात् । श्रावणत्वं श्रवणग्रा
ह्यताऽश्रावणव्यावृत्तिः (।) तच्च शब्देपि क्वचित् कञ्चित् पुरुषमपेक्ष्य भवति ।
अशब्दव्यावृत्तिस्तु शब्दत्वं तच्च सर्व्वत्रास्ति ततो व्यावृत्तिभेदात् शब्दे सिद्धस्य
श्रावणत्वस्यान्यत्राननुवृत्तेरसाधारणतैव युक्तेत्युक्तं सपरिकरं पक्षलक्षणम् ॥

इति पक्षलक्षण(म् । )

६. हेतुचिन्ता

(२) हेतुलक्षणम्

म. पक्षधर्मप्रभेदकथने कारणम्

हेतुलक्षणमिदानीम्वक्तव्यं । तत्र हेतुलक्षणमेव तत्र यः सन् सजातीयेइत्या
दिकं युक्तं
वक्तुं । सपक्षे सन्नसन् द्वेधा पक्षधर्मः पुनस्त्रिधेत्यादिना नवधा
पक्षधर्मप्रभेदस्तु कस्मादुक्त 2351 इत्याह ।

पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये ।
हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते ॥ १८९ ॥
  1. यदि च ।

  2. स मु च्च ये ।