504 103b भावो धूमः शक्र
मूर्ध्नो जायते । तदा वह्नेरेव शक्रमूर्द्धा । अथानग्निस्तथाऽदृश्य
मानत्वात् तथा सोपि न धूमो वास्यादिरेव आकारसाम्यात्तु धूमाभः । तस्मात्2398
कार्यकारणभावस्य नान्तरीयक2399तेति स्थितं ॥ (२५७)

नान्तरीयकता ज्ञेया यथास्वं हेत्वपेक्षया ।
स्वभावस्य यथोक्तं प्राक् विनाशकृतकत्वयोः ॥ २५८ ॥

स्वभावस्य च हेतोर्नान्तरीयकता साध्या अविनाभाविता ज्ञेया । यथास्वं यस्य स्वभावहेतोर्य आत्मीयस्तादात्म्यसाधको हेतुः साधनं तस्यापेक्षया । यथा
प्रागुक्तं विनाशकृतकत्वयो

स्तादात्म्यसाधनं अवश्यं हि कृतकानाम्विनाशः । न
चार्थसापेक्षाणामवश्यं भावः । ततः स्वभावत एव कृतकानन्नश्वराणां विनाशं
प्रत्यनपेक्षित्वादिति दर्शितं । तदेव स्वभावकार्ययोरव्यभिचारित्वाद्धेतुत्वं । न च
प्राणादेरात्मकार्यत्वं सिद्धमिति कथं हेतुता । (२५८)

ख. प्राणादेरुक्तो दोष आचार्येण

नन्वयं प्राणादेरुक्तो दोषकलापि आ चा र्ये णे ष्ट इति कथं गम्यत इत्याह ।

अहेतुत्वगतिन्यायः सर्वोयं व्यतिरेकिणः ।
अभ्यूह्यः श्रावणत्वोक्तेः कृतायाः साम्यदृष्टये ॥ २५९ ॥

सर्व्वस्यासादार
णस्य दोषदुष्टत्वेन साम्यदृष्टये तुल्यतोपदर्शनाया चा र्ये ण श्राव
णत्व
स्यासाधारणस्य योक्तिः कृता तस्या एवायं व्यतिरेकिणः प्राणादेरन्यस्य च
हेतोरहेतुत्वगतिन्यायः सर्व्वोऽभ्यूह्यः । (२५९)

(७) अनुपलब्धिचिन्ता

(१) अनुपलब्धेः पृथगग्रहणे कारणम्

ननु यथा स्वभावकार्यसिद्ध्यर्थं द्वौ हेतू उक्तौ तथाऽनुपलब्धिरपि वक्तुं युक्ता
हेतुत्वात् । स्वभावानुपलब्धिस्तावत् तादात्म्यप्रतिबन्धात् स्वभावहेतोर्न भिद्य

इति स्वभावहेतुर्निर्देशादेव निर्द्दिष्टा । कारणव्यापकानुपलब्धिभ्याञ्च निषेध्या
नुपलब्धिरेव प्रतिपाद्यत इति न तेपि स्वभावानुपलब्धेर्भिद्यन्ते । उदाहरणन्तर्हि
कस्मान्नोक्तमित्याह ।

  1. एवं तावत् कार्यस्य नियमः ।

  2. नियमः ।