उपलब्धिलक्षणप्राप्तविषयत्वमनुपलब्धेर्व्विशेषणं कथं सिद्धमिति चेदाह ।

तत्राप्यदृश्यात् पुरुषात् प्राणादेरनिवर्तनात् ।
सन्देहहेतुताख्यात्या दृश्येर्थे सेति सूचितम् ॥ २६१ ॥

प्राणादेर्हेतोरदृश्यात् पुरुषादात्म2400नोऽनिवृत्तेर्निवृत्त्यसिद्धे जीवच्छरीरे सन्देह
हेतु
तया आख्यात्या कथनेन तत्रानुपलब्धाव
पि दृश्येऽर्थे याऽनुपलब्धिः सा भाव
साधिका नान्येति सूचितमा चा र्ये ण । यदि त्वनुपलब्धिरित्येव प्रमाणं तदाऽत्मनि
प्राणादेर्निवृत्तिः सिध्येत् । ततश्च जीवच्छरीरे वर्त्तमानमात्मानं गमयेदिति न
सन्देहहेतुः स्यात् । (२६१)

  1. अन्यत्रादृष्टरूपस्येत्यादिनात्मनोऽदृश्यस्याव्यतिरेकेण ।