511

८. भावस्वभावचिन्ता

(१) हेत्वन्तरसापेक्षो न ध्रुवभावः

हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः ।

उत्पादकाद्धेतोर्हेत्वन्तर
समुत्थस्य
धर्मस्य सन्निधौ सन्निधाने नियतः कुतः । यथा कारणान्तरसापेक्षस्य वाससि नावश्यंभावनियमो रागस्य ।

(२) न भावनश्वरस्वभावनियतो भावः

स्यादेतत् । भावहेतुरेवानित्यत्वाख्यं धर्मं भावनाशकं जनयति तेन नश्वर- स्वभावनियतो भाव इत्याह ।

भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ॥ २८० ॥

भावहेतुभवत्वेऽनित्यत्वाख्यस्य धर्मस्य भावनाशकस्येष्यमाणे पारम्पर्ये परिश्रमैरेभिः स्वीकृतैः किं प्रयोजनं । (२८०)

तथा
हि (।)

नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः
तमेव नश्वरं भावं जनयेद् यदि किम्भवेत् ॥ २८१ ॥

भावहेतुरन्यमनित्यत्वाख्यं धर्मं भावनाशनं जनयित्वा तस्याभावस्य नाशक इष्यते परंपरया । यदि तु तमेवश्वरं भावं साक्षाद् भावहेतुर्जनयेत् । तदा- किंन्दूषणं भवेत् । न किञ्चित् । (२८१)

अपि च (।)

आत्मोपकारकः कः स्यात् तस्य सिद्धात्मनः सतः ।
नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते ॥ २८२ ॥

यो यावाननित्यत्वाख्यो धर्म आत्मा भावस्य स किमुपकारकः सन् विनाशको भावस्य उतानुपकारक एव । तत्राद्ये पक्षे सिद्धात्मनो भावस्य सतः सर्व्वतो निरा- शंस्य
स्य क आत्माऽनित्याख्यो धर्मोऽन्यो वा उपकारकः स्यात् । अथ द्वितीयः पक्षः (।) तदाऽनात्मा उपकारकः स्यात् । तेन भावेन यो नाशकत्वेन समपेक्ष्येत । उपकारक एव ह्यपेक्ष्यते अनुपकारकत्वे का तस्यापेक्षा नाशकता वा ।2409(२८२)

  1. व्यर्था नाशहेतुकल्पना