विमुक्तावरणक्लेशं दीप्ताखिलगुणश्रियं ।
स्वैकवेद्यात्मसम्पत्तिं नमस्यामि महामुनिम् ॥
स्वयमपि कृतिनां महद्भिरन्यैरपि गमितो बहुविस्तरैर्न्न योयम् ।
तदपि च सुगमो न मद्विधानामिति विवृतिच्छलतः करोमि चिन्ताम् ॥
अहमपि न निजैकलाभलुब्धो न च परकृत्यरसाभिलाषमुक्तः ।
फलति पुनरियं परार्थवाञ्छाव्रततिरभीष्टफलानि पुण्यभाजाम् ॥