गृहीतग्र
हणान्नेष्टं सांवृतं दर्शनोत्तरकालं सांवृतं विकल्पज्ञानं प्रमाणं नेष्टं 2b
दर्शनगृहीतस्यैव ग्रहणात् तेनैव च प्रापयितुं शक्यत्वात् सांवृतम22किञ्चित्करमेव ।
कस्मात्पुनर्द्धियः प्रमाणतेष्यते नेन्द्रियादेः(।) हेयोपादेयवस्तुविषयायाः प्रवृत्ते23स्तत्
प्रधानत्वात् ज्ञानप्रधानत्वात् धिय एव प्रामाण्यं (।) न हीन्द्रियमस्तीत्येव प्रवृत्तिः
किन्तर्हि ज्ञानसद्भवात् साधकतमञ्च प्रमाणं तस्याव्यवहितव्यापार
त्वात् । (५)
एवं फलार्थिनां प्रवृत्तिव्यवहारकारित्वेन धियः प्रामाण्यं प्रतिपादितं । साम्प्रत
मधिगमफलविभागकारित्वमाह ।
धियो विषयस्येवाकारो विषयाकारः24 नीलादिस्तस्य भेदात् विशेषादधि
गम25स्यार्थप्रतीतेर्भेदाद्विशेषाद्धिय एव प्रामाण्यं नीलस्वरूपं हि ज्ञानं नीलप्रतीति
रन्यादृशमन्यथेति धीरेव प्रमाणं ।
ननु यथाधिगमसाधन26माकारस्तथेन्द्रियमपि तदुत्पत्तेरत आह
(।)
तस्याकारस्य भावेऽस्याधिगमस्य भावादेव साधनमव्यवहितत्वात्न त्विन्द्रियादि
तद्भावेपि ज्ञानानुत्पत्तावधिगमाभावात् । कश्चि27दाह (।) सर्वज्ञानानामबाधितत्व
लक्षणं प्रामाण्यं 28स्वत एव सिध्यते29 बाधकारणदोषज्ञानाभ्यां क्वचित्तदपोह्यते
यथा शुक्तिकायां रजतज्ञाने30 चन्द्रद्वयदर्शने वा । तच्चेदमयुक्तं यतः (।)
-
. . . . . . . घटः । तद्गतसत्ता महासामान्यं । तत्संख्यान्तर्ग्गतः । उत्क्षेपणं कर्म तस्यैवैते व्यपदेशा इति सांवृताः ।
↩ -
ज्ञात्वैव पुंसः प्रवृत्तेः ।
↩ -
रूपं
↩ -
धियः ।
↩ -
अधिगमस्य साधनमिन्द्रियादुत्पत्तेः ॥
↩ -
मीमांसकः ।
↩ -
उत्तरकालभाविनानभ्यासजेन चेत् ।
↩ -
विषयाकारस्य स्वसम्वेदनात् ज्ञानसत्तासिद्धिः ।
↩ -
स्वतः प्रामाण्यस्य ज्ञाते ज्ञाने तदात्मभूतस्य प्रामाण्यस्यापि ज्ञातत्वात् ।
↩