तच्चाभियोगवान् वक्तुं यतस्तस्मात् प्रमाणता ॥
108

तच्च सत्यचतुष्टयं विनेयानां वक्तुमभियोगः सादरसततप्रवृत्तिस्तद्वान् तायी
चेत्यर्थः । तस्मात् कारुणिकत्वात् सुगतत्वात् शास्तृत्वात् तायित्वाच्च भगवतः
प्रमाणता यथोपदर्शितार्थसम्वादकताऽन्यैरज्ञातचतुःसत्यार्थप्रकाशकता वाऽनुमीयत
इत्यर्थः ।

एवञ्चानुमानानुमेयव्यवहारे स्थिते प्रामाण्यात्तायित्वं हितैषित्वादु
पाया
20b भ्यासाच्च सुगतत्वम्भवतीत्युक्तं ।

(७) संवादकत्वात् भगवान् प्रमाणम्

कस्मा534त्पुनरनेकगुणसम्भारसम्भवेपि प्रामाण्येनैव भगवतः स्तुतिरित्याह (।)

उपदेशतथाभावस्तुतिस्तदुपदेशतः ॥ २८५ ॥
प्रमाणतत्वसिध्यर्थं;

उपदेशस्य तथाभावः सम्वादकत्वं प्रामाण्यं । तेन स्तुतिराचार्येण कृता । तस्य
भगवत उपदेशतः (२८५) प्रमाणस्य तत्त्वं लक्षणं तत्सिध्यर्थं भ ग व द्दे शनायाः535
प्रमाणविनिश्चयो नोत्प्रेक्षामात्रेणेत्याख्यातुमित्यर्थः ।

a. ननु नीलसमङ्गी पुरुषो नीलं जानाति नो तु नीलमिति ब्रुवता भग
वता प्रत्यक्षं दर्शितं । अनुमानं नोक्तं । कथमागमात् प्रत्येतव्यमित्याह (।)

अनुमानेऽप्यवारणात् ।
प्रयोगदर्शनाद् वाऽस्य;

अनुमानेप्यवारणादिष्टिर्दर्शिता । शून्याः परप्रवादा इत्यादिना शाब्दादेरेव
निषेधात् प्रयोग536स्य परार्थानुमानरूपस्य दर्शनाद्वागमेऽस्यानुमानस्य निर्देशः कृत एव
भगवता (।)

तमेव प्रयोगमाह (।)

यत् किञ्चिदुदयात्मकम् ॥ २८६ ॥
निरोधधर्मकं सर्वं तदित्यादावनेकधा ॥
109

यत्किञ्चिदुदयात्मकं (२८६) तत्सर्वं निरोधधर्मकमित्यादावागमवाक्येऽनेकधा स्वभावादिलिङ्गजमनेकप्रकारमनुमानं दुश्यते ।

b. कथं पुनरनेनानुमानमुक्तमित्याह (।)

अनुमानाश्रयो लिङ्गमविनाभावलक्षणम् ॥ २८७ ॥
व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत् स्फुटम् ॥

अनुमानस्याश्रयः कारणं लिङ्गम्वक्तव्यम
नुमाननिर्देशार्थमन्यथाऽशक्यत्वात् ।

किं लक्षणमित्याह (।) अविनाभावः साध्याव्यभिचारित्वं तल्लक्षणं यस्य
तत्तथा । (२८७) स चाविनाभावो लिङ्गं लक्षणं हेतोरुदयधर्मकत्वस्य साध्येन निरोधधर्मकत्वेन व्याप्तेः प्रदर्शनात् यत्किञ्चिदुदयधर्मकं तत्सर्व्वं निरोधधर्म- कमि 537त्यादिना स्फुटः प्रव्यक्तो दर्शित (:।)

इत्यनुमानप्रामाण्यनिर्देशोपि भगवदुपज्ञमेव (।) तदेवं भगवानेव प्रमाणभूत
स्तायी मुमुक्षुभिरुपास्यो नेतर इति
दर्शनार्थमा चा र्ये ण तस्य स्तुतिरुक्तेति युक्तं ॥

  1. प्रमाणभूतायेत्येव स्तुतिपदमाह [प्रमाण] समुच्चये ।

    [
    प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने ।
    प्रमाणसिद्धयै स्वमतात् समुच्चयः करिष्यते विप्रसृतादिहैकतः ॥ (१।१) ॥
    ]
  2. सकाशात्प्रमाणयोः ।

  3. अन्यान्यप्याक्षिप्तानीति ग्राह्याणि स्युरित्याह ।

  4. महावग्गे १।१।८