110 प्रथमपरिच्छेदेन प्रमाणसामान्यलक्षणं व्यवस्थाप्य विशेषलक्षणमाख्यातुं
द्वितीयपरिच्छेदारम्भः ।

(१. प्रमाणसंख्याविप्रतिपत्तिनिरासः)

विप्रतिपत्तयश्चात्र संख्यालक्षणगोचरफलविषयाः सन्ति । तत्र संख्या
विप्रतिपत्तिनिराकरणार्थमाह (।)

मानं द्विविधं विषयद्वैविध्यात्;

मानं द्विविधं । यत्तत्प्रमाणमविसम्वादित्वादज्ञातार्थप्रकाशकत्वात्सामान्य-

लक्षणमुक्तं तद् द्विविधं । प्रत्यक्षानुमानभेदेन । कस्माद् (।) विषयस्य स्वलक्षणसा
मान्यलक्षणरूपतया द्वैविध्यात् । शाब्दादिकमपि हि प्रमाणम्भवत्सविषयं वक्तव्यं (।)
विषयश्च स्वसामान्यलक्षणादतिरिक्तो नास्ति । ततस्तद्विषयत्वे प्रत्यक्षानुमान
तैव । नापि सामान्यविशेषात्मक एकोस्ति विषयः539 । परस्परविरुद्धयोरैकात्म्या
योगात् ।

ननु कथं विषयद्वैविध्यसिद्धिः (।) न प्रत्यक्षान्नाप्यनुमानतो यथाक्रमं स्वलक्षण
सामा
न्यलक्षणत्वादनयोः । द्वाभ्यां द्वयसिद्धिरिति चेत् ।

ननु प्रत्यक्षस्य सामान्याविषयत्वे साध्यसाधनसम्बन्धाग्रहणादनुमानमेव न
स्यात् । सामान्यविषयत्वे च प्रत्यक्षत्वादेव तत्सिद्धेर्व्विफलमनुमानस्य प्रामाण्य
कल्पनं ।

अत्रोच्यते । प्रत्यक्षमपि स्वलक्षणं विषयीकुर्व्वत् तत्सम्भवि विजातीय
व्यावृत्त्युपकल्पितं सामान्यं पृष्ठविकल्पेन निश्चिन्वत्तद्विषयमपि निश्चयविषयेण

  1. नीलोत्पलादि परस्य अर्थसामर्थ्ये स्वलक्षणत्वमेव ।