(२. सत्यद्वयचिन्ता)

तदेवार्थक्रियासामर्थ्यादिकं स्वलक्षणा
दौ योजयन्नाह ।

अर्थक्रियासमर्थ यत् तदत्र परमार्थसत् ।
अन्यत् संवृतिसत् प्रोक्तं; ते स्वसामान्यलक्षणो ॥ ३ ॥

अर्थक्रियायां ज्ञानादिकायां स्वरूपोपधानेन समर्थं यत्तदत्र वस्तुविचारो परमार्थ
सत्
 । एवं यदसदृशं शब्दाविषयोऽन्यनिमित्तभावे ज्ञानाभावश्च तत्परमार्थसत् ।
अतोऽन्यदशक्तं सदृशं शब्दविषयः । अन्यनिमित्तभावे बुद्धेर्व्विषयश्च तत् संवृतिसत्
प्रोक्तं
कल्पनामात्रव्यवहार्यत्वात् । ते परमार्थसंवृती स्वसामान्यलक्षणे । (३)