132
मेयं त्वेकं स्वलक्षणाम् ॥ ५३ ॥

किन्तु भाववासनाप्रबोधप्रसूतविकल्पकल्पितत्वात्643 । परमार्थतो मेयं त्वेकं
स्वलक्षणं
 । तस्यैव रूपबुद्ध्युत्पादकत्वात् । (५३)

तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् ॥
25a

सामान्यस्य तु कल्पि
तत्वात् । सामर्थ्याभावात्स्वलक्षणमेकं प्रमेयं तस्माद
र्थक्रियासिद्धेः
 । अर्थक्रियार्थिभिः सदसत्ताभ्यां तस्यैव विचारणात् । असत्त्वमपि
स्वलक्षण644स्यैव विचिन्त्यते ।

यद्येकमेव प्रमेयं तदा645चार्येण प्रमेयद्वैविध्यं यदुक्तं न स्वसामान्यलक्षणाभ्या
मन्यत्प्रमेयमस्तीति तद् विरुध्यते इत्याह ।

तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥ ५४ ॥

तस्य स्वलक्षणस्य प्रत्यक्षतः स्वरूपेणानुमानतः पररूपेण सामान्याकारेण
गतेर्मेयद्वयं मतं न तु भूतसामान्यस्य सत्त्वात् (५४) ।

४. अनुमानचिन्ता

(१) अनुमानसिद्धिः

क. भ्रान्तमनुमानं प्रमाणाम्

अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते ।

या च द्वितीया पररूपेण गति
रयथाभिनिवेशेन भ्रान्तिरिष्यते साऽनुमानं
यथाऽर्थोस्ति यथा वा स्वाकारस्तथा नाभिनिविशते किन्तु स्वाकारं बाह्यं साधारण
तया मन्यते ।

गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता ॥ ५५ ॥

नन्वनुमानं पररूपेण गतिश्चेत् तदा भ्रान्तिरेव । न च भ्रान्तेः प्रमाणतेष्यते
मृगतृष्णादेरिव । (५५)

  1. यत एवं नान्यदर्थक्रियाक्षमं ।

  2. व्याप्तिः पक्षधर्मता चेत्यत्र नेदं वाच्यं । अन्वयव्यतिरेकपक्षधर्मताकालेपि
    न वाच्यं । अन्वयव्यतिरेकमात्रे तु वाच्यं । अस्ति न वेति कृत्वा । दृष्टत्वात

  3. दिग्नागेन ।