अत्रोच्यते ।
भ्रान्तेरपि प्रमाणता । अभिप्रायस्यार्थक्रियार्थिभिः ज्ञानगोचरतयाऽभिप्राय
विष647यीकृतस्यार्थक्रियासमर्थस्यार्थस्य संवादात् । अर्थक्रियार्थिनो हि तत्साधनसम
र्थार्थप्रापकं
प्रमाणमिच्छन्ति । अन्यथा पररूपेण गतिरपि काचिदभिप्रेतार्थ
सम्वादिका दृष्टेति प्रमाणमेव ।
नन्वनुमानं वस्त्वेव गृह्णत् प्रमाणमस्तु किं भ्रान्तिरिष्यते इत्याह ।
पक्षश्चायं प्रागेव न तद्वस्तु अभिधेयत्वादित्यादिना (२।११) कृतोत्तरः । (५६)
ननु भ्रान्तमपि यद्यनुमानं प्रमाणं तदा सर्व्वैव भ्रान्तिः प्रमाणं स्यादित्याह ।
मणिप्रदीपयोर्ये प्रभे तयोर्मणिबुद्ध्या मणिरेवायमित्यध्यवसायेन तद्ग्रहणार्थं
धावतो मिथ्याज्ञानस्य भ्रान्तत्व
स्याविशेषेपि विशेषोऽर्थक्रियाम्प्रति । मणिप्रभायां
मप्यध्यवसायी मणिसाध्यामर्थक्रियां प्राप्नोति । (५७)
दीपप्रभायान्तु मणिव्यवसायी तन्न प्राप्नोतीति यथा तथा त्रिरूपलिङ्गजमनु
मानं । तदाभञ्च तन्न न तथा । तयोः स्वाकारे बाह्यध्यवसायप्रवृत्तत्वात् अयथा
र्थत्वेपि प्रमाणत्वं व्यवस्थितं । विशेषेणावस्थितमर्थक्रियानुरोधेनानुमानमेव
प्रमाणं । परम्परयाऽर्थादुत्पत्तेः तत्प्रापकत्वात् । नेतरद्विपर्यया
त् । तस्मात्प्रमेय
द्वित्वं गतिभेदात् । (५८)
तयोर्लक्षणं ग्रहणञ्चाख्यातुमाह ।