तस्मात् (।)

संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना ।
स्थितोपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ १२४ ॥

संहृत्याकृष्य सर्व्वतो विकल्पनीयाच्चिन्तां स्तिमितेन सर्व्वाविकल्प
विगमात् अधिक्षिप्तेनान्तरात्मना चेतसा स्थितोऽपि पुरुषश्चक्षुर्व्विज्ञानेन रूप
मीक्षते साक्ष
जा निर्व्विकल्पा मतिः सर्व सम्विदितैव । (१२४)