कल्पनापि स्वसंवित्ताविष्टा ना
र्थे विकल्पनादिति व्याख्यातुमाह932 (।)

शब्दार्थग्राहि यद् यत्र तज्ज्ञानं तत्र कल्पना ।
स्वरूपञ्च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम् ॥ २८७ ॥

शब्दार्थग्राहि अन्यव्यवच्छेदस्य ग्राहकं यज्ज्ञानं यत्र विषये तज्ज्ञानं तत्र कल्प
नोच्यते
 । ज्ञानानां स्वरूपञ्च स्वलक्षणात्मकं न शब्दस्यार्थो विषयोऽतो वाच्यत्वा
त्तत्र स्वरूपेऽखिलं ज्ञानमविकल्पत्वादध्यक्षं । उक्तं चतुर्व्विधं प्रत्यक्षं ॥ X X ॥
(२८७)

  1. अत्रापि स्मृतिरस्तीति निर्व्विषयत्वं स्फुटयति ।