नन्वविकल्पकं प्रत्यक्षं । ततस्त्रयमपीदं सविकल्पकत्वादेकः प्रत्यक्षाभासः । तत्
किं भ्रान्तिज्ञानं मृगतृष्णिकायां जलावसायि । संवृतिसतो द्रव्यादेर्ज्ञानं । अनुमानं
लिङ्गज्ञानं आनुमानिकं
लिङ्गिज्ञानं स्मार्त्त स्मृतिः आभिलापिकं चेति विकल्प
प्रभेद आचार्य दि ग्ना गे नोक्त इत्याह (।)

अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदशनात् ॥
सिद्धानुमादिवचनं साधनायैव पूर्व्वयोः ॥ २८९ ॥

द्वे सांवृतारोपितयोः कल्पनाज्ञानेऽनक्षजत्वस्यानिन्द्रियत्वस्य सिद्ध्यर्थं भेदे
नोक्ते । परेषां तयोरक्षजत्वभ्रान्तिदर्शनाद् । घटोयं द्वौ935 कम्पत इत्यादि । जल
मिदमिति च व्यवसायात्मकमिन्द्रियप्रत्यक्षमेव प्रतिपद्यत इति परो मन्यते । तन्निरा
सार्थं द्वयोरुपादानं । अनिन्द्रियत्वेन स्मृतिबलभावित्वेन सिद्धं च तदनुमादि
तस्य वचनं पूर्व्वयोः संवृतारोपितकल्पनयोरेवानक्षजत्वसाधनाय । तथा हि
यत्पूर्व्वानुभूतसमयस्मृतिभावि न तत्प्रत्यक्षं । यथाऽनुमानादि । अनुभूतसमयस्मृति
सापेक्षा चावयविजलादिकल्पना इति विरुद्धोपलब्धिरुक्ता । (२८९)

  1. कल्पनमपि स्वसम्वित्तावध्यक्षं स्वसम्वेद्यत्वात् सुखादिवत् ।