८. प्रमाणफलचिन्ता

प्रमाण
फलव्यवस्थां कर्तुमाह ।

क्रियासाधनमित्येव सर्व्वं सर्व्वस्य कर्म्मणः ।
साधनं न हि तत्तस्य साधनं या क्रिया यतः ॥ ३०१ ॥

क्रियायाः साधनं हेतुरित्येव न हि सर्व्वं कारणं सर्व्वस्य कर्म्मणः क्रियायाः
साधनं करणं (।) किन्तर्हि तद्वस्तु तस्य कर्मणः साधनं करणं या क्रिया यतः पदार्थाद
209 व्यवधानेन भवति स तस्याः कारणमुच्यते । ततश्चेन्द्रियादेः प्रमितिं प्रत्यव्यवहित
साधकत्वाभावात् न प्रमाणं । (३०१)