212

सर्व्वेषां
कारकाणां
साक्षात्पारम्पर्येण क्रियां प्रत्युपयोगेपि तेषु मध्ये यत्कारक
मन्त्यं
कारकान्तरेणाव्यवहितव्याप्यारं सत् क्रियाभेदकं तत्तस्याः साधकतमं मतं नान्यत् । (३११)

तथा हि (।)

सर्व-सामान्यहेतुत्वादक्षाणामस्ति नेदृशम् ।
तद्भेदेपि ह्यतद्रूपस्यास्येदमिति तत्कुतः ॥ ३१२ ॥

अक्षाणां तावदीदृशं साधकतमत्वं नास्ति सर्व्वं---सामान्यहेतुत्वात् ।
956सर्व्वज्ञानसाधारणहेतुत्वात् । अवान्तराधिगतिभेदकत्वानुपपत्तेः । तेषामिन्द्रियाणां
प्रमादाविलत्वादिभेदेपि ज्ञानस्यातद्रूपस्य विषयसारू
प्यरहितस्य इदमस्य
ग्राहकमिति ग्राहकत्वं यदिष्यते तत्कुतः । (३१२)

एतेन शेषं व्याख्यातं विशेषणधियां पुनः ।
अताद्रुप्ये न भेदोपि तद्वदन्यधियोपि वा ॥ ३१३ ॥

एतेनाक्षाणामसाधनत्वदर्शनेन शेषमालोचनार्थसम्बन्धादि व्याख्यातं । तदप्यर्थ
सारूप्यरहितमसाधनं ।957 सारूप्ये च स्वीकर्तव्ये तदेवाव्यवहितत्वात् साधनमस्तु ।
विशेषणधियां पुनरयमधिको दोषः । अताद्रूप्ये विशेषणसारूप्याभावे विशेष्यधियः
सकाशाद्भेदोपि न स्यात् । द्वयोरप्याकाररहितत्वेन भेदस्थित्यनुपप
त्तेः । ततश्चैका
प्रमाणमन्या च फलमिति कुतः । अथ सारूप्यं विशेषणधियो भेदकमिष्यते । एवं च
सति तदेव प्रमाणं फलं च स्यात् । अर्थसरूपत्वादधिगतिरूपत्वाच्च । तद्वद् विशेषण
बुद्धेरिव अन्य958 बुद्धेर्विषयसारूप्यं फलात्मकञ्चेष्यतां । (३१३)

किञ्च (।)

नेष्टो विषयभेदोपि क्रियासाधनयोर्द्वयोः ।
एकार्थत्वे द्वयं व्यर्थं न च स्यात् क्रमभाविता ॥ ३१४ ॥

क्रियासाधनयोर्विषयभेदोपि नेष्टः सर्व्वस्य । न ह्यन्य959त्र परशुव्यापारश्छिदा
चान्यत्र । इह तु विशेषणे प्रमाणव्यापारः क्रिया च विशेष्य इति भि
न्नविषयता
कथमिष्टा ।

  1. नीलादेः ।

  2. अस्येदमित्यालोचनमित्यसिद्धेः ।

  3. विशेष्यबुद्धेः ।

  4. द्वे ज्ञाने विशेषणविशेष्यभिन्नविषये इति विशेषणे तदधिगमरूपतया
    व्यापृतं विशेष्ये ।