किञ्च (।)

नेष्टो विषयभेदोपि क्रियासाधनयोर्द्वयोः ।
एकार्थत्वे द्वयं व्यर्थं न च स्यात् क्रमभाविता ॥ ३१४ ॥

क्रियासाधनयोर्विषयभेदोपि नेष्टः सर्व्वस्य । न ह्यन्य959त्र परशुव्यापारश्छिदा
चान्यत्र । इह तु विशेषणे प्रमाणव्यापारः क्रिया च विशेष्य इति भि
न्नविषयता
कथमिष्टा ।

213

अथैतद्दोषतया द्वयोः क्रियासाधनयोः क्रमभाविनोरेकार्थत्वे एकविषयत्वे
च स्वीक्रियमाणे द्वयं भिन्नं प्रमाणं फलं च व्यर्थं विशेषणज्ञानं प्रमाणं फलं चास्तु
विषयस्वरूपत्वादधिगमस्वभावाच्च । ततः परं तु विशेष्यज्ञानमधिगताधिगन्तृत्वाद
नुपयुक्तं । न चैकविषययोर्ज्ञानयोः क्रमभावितास्ति विषयस्य तज्जननशक्तस्य
क्रमेण स्वकार्यजननविरोधात् । (३१४)

  1. द्वे ज्ञाने विशेषणविशेष्यभिन्नविषये इति विशेषणे तदधिगमरूपतया
    व्यापृतं विशेष्ये ।