213

अथैतद्दोषतया द्वयोः क्रियासाधनयोः क्रमभाविनोरेकार्थत्वे एकविषयत्वे
च स्वीक्रियमाणे द्वयं भिन्नं प्रमाणं फलं च व्यर्थं विशेषणज्ञानं प्रमाणं फलं चास्तु
विषयस्वरूपत्वादधिगमस्वभावाच्च । ततः परं तु विशेष्यज्ञानमधिगताधिगन्तृत्वाद
नुपयुक्तं । न चैकविषययोर्ज्ञानयोः क्रमभावितास्ति विषयस्य तज्जननशक्तस्य
क्रमेण स्वकार्यजननविरोधात् । (३१४)

सकृदुत्पत्ता
वेव विशेषणविशेष्यधियोः प्रमाणफलता भविष्यतीति चेत् ।42a
आह (।)

साध्यसाधनताभावः सकृद्भावे;

सकृद् भावे साध्यसाधनतायाः अभावः । कार्यकारणभावविशेषत्वेन तस्या
960ष्टत्वात् ।

नन्वेवमाकाराधिगमयोरेकज्ञानात्मत्वेपि प्रमाणफलताऽनुपपन्नेत्याह (।)

धियोंशयोः ।
तद्‏व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः ॥ ३१५ ॥

धियोऽशंयोराकाराधिगमलक्षणयोः साध्यसाधनसंस्थितिः क्रियाकरणव्य
वस्था । तद्‏व्यवस्थाश्रयत्वेनाकारवशेनाधिगतिविशेषव्यवस्थानात् । नास्त्यत्र
कार्यकारणात्मकः क्रियाकरणभावः किं तु
व्यवस्थाप्यव्यवस्थापकभावः । स च
तादात्म्येप्यविरुद्धः । (३१५)

अर्थसन्निकर्षोपि न प्रमाणमित्याह (।)

सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते ।
धर्मैः स नियमो न स्यात् सम्बन्धस्याविशेषतः ॥ ३१६ ॥

बाह्यं सर्व्वात्मना सर्व्वैराकारैरिन्द्रियादिभिः सम्बद्धमपि कैश्चिदेय धर्म्मैर्नील
त्वादिभिर्ग्गम्यते न त्पणुपुञ्जत्वादिभिः961 । स एष ग्रहणस्य निय962 मो न स्यात् ।
सम्ब
963 न्धस्यापि गतिस्थितिहेतोरविशेषतः । (३१६)

  1. प्रमाणादन्यफलवादिना ।

  2. विज्ञानमेव हि विषयप्रतिभासमुत्पद्यमानं ग्राह्यग्राहकभेदवदुपलक्ष्यते तेन
    बाह्योर्थोस्तीति नार्थाधिगतिरूपा काचित् क्रियास्ति, या प्रमाणफलत्वेन
    व्यवस्थाप्यत इति वृत्तिः । प्राप्यकारीन्द्रियपक्षे सर्व्वात्मना विषयस्पर्शात् सर्व्वथा
    वसायः स्यात् सारूप्ये तु यावन्मात्रेण प्रतिबिम्बस्तावतो ग्रहान्न दोषः ।

  3. सन्निकर्षप्रमाणत्वे ।

  4. सन्निकर्षस्य ।