अर्थसन्निकर्षोपि न प्रमाणमित्याह (।)

सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते ।
धर्मैः स नियमो न स्यात् सम्बन्धस्याविशेषतः ॥ ३१६ ॥

बाह्यं सर्व्वात्मना सर्व्वैराकारैरिन्द्रियादिभिः सम्बद्धमपि कैश्चिदेय धर्म्मैर्नील
त्वादिभिर्ग्गम्यते न त्पणुपुञ्जत्वादिभिः961 । स एष ग्रहणस्य निय962 मो न स्यात् ।
सम्ब
963 न्धस्यापि गतिस्थितिहेतोरविशेषतः । (३१६)

  1. विज्ञानमेव हि विषयप्रतिभासमुत्पद्यमानं ग्राह्यग्राहकभेदवदुपलक्ष्यते तेन
    बाह्योर्थोस्तीति नार्थाधिगतिरूपा काचित् क्रियास्ति, या प्रमाणफलत्वेन
    व्यवस्थाप्यत इति वृत्तिः । प्राप्यकारीन्द्रियपक्षे सर्व्वात्मना विषयस्पर्शात् सर्व्वथा
    वसायः स्यात् सारूप्ये तु यावन्मात्रेण प्रतिबिम्बस्तावतो ग्रहान्न दोषः ।

  2. सन्निकर्षप्रमाणत्वे ।

  3. सन्निकर्षस्य ।