214
तदभेदेपि भेदोयं यस्मात्तस्य प्रमाणता ।
संस्काराच्चेदताद्रूप्ये न तस्याप्यव्यवस्थितेः ॥ ३१७ ॥

यस्मादिन्द्रियसन्निकर्षादेः प्रामाण्यमयुक्तं तत्तस्मादभेदेपि सन्निकर्षाद्यविशेषेपि
यस्मान्नियामकात् तज्ज्ञानस्यायं भेदो नीलस्येदं ज्ञानं पीतस्य चेदमित्या
दि तस्य
प्रमाण
ता युक्ता । स च आकार एवेति स एव प्रमाणं ज्ञानजातज्ञानहेतोः
संस्काराज्ज्ञानस्य कैश्चिदेव धर्मैर्ग्रहणनियम इति चेत् (।) तस्य संस्कारस्याप्य
ताद्रूप्ये विषयासरूपत्वेऽव्यवस्थितेः । (३१७)