किन्तर्हि प्रमाणमस्तीत्याह (।)

तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः ।
भाव्यन्तेनात्मना येन प्रतिकर्म्म विभज्यते ॥ ३०२ ॥

तत्र रूपादौ कर्मणि ज्ञानस्यानुभवमात्रेणानुभवात्मनो सदृशात्मनस्तुल्यरूपस्य

तेनात्मना स्वरूपेण प्रतिविषयं व्यतिरेकिणा भाव्यं येन प्रतिकर्म्म प्रतिविषयज्ञानं
विभज्यते । नीलस्येदं पीतस्येदमिति । अन्यथानुभवमात्रतया सर्व्वत्र विषये सदृशं
ज्ञानं प्रतिविषयं कथं भेदेन व्यवस्थापयितुं शक्येत । (३०२)