215 इदानीं यो गा चा रो वेद्यवेदकभावमपश्यन् सौ त्रा न्ति कं पृ964 च्छति ।

कार्थसंविद्;

काऽर्थस्य संवित् ज्ञानमुच्यते ।

अत आह (।)

यदेवेदं प्रत्यक्षं प्रतिवेदनम् ।

यदेवेदं प्रत्यक्षमनुभवसिद्धं प्रतिवेदनं नीलाद्याकारेण प्रतिनियतं वेदनं प्रति
सन्ताननियतं वा सैवार्थसंविदुच्यते ।

तदर्थवेदनं केन ताद्रूप्याद् व्यभिचारि तत् ॥ ३२० ॥

ननु तत् प्रतिनियतं वेदनमनुभूयमानमर्थंस्य वेदनं केन हेतुनोच्यते स्वप्रका
शात्मकत्वात् स्व
वेदनमेव तद्युक्तं नार्थवेदनं । तस्य सर्व्वदा परोक्षत्वात् । ताद्रू
प्या
दर्थसरूपत्वात् ज्ञानमर्थवेदनमिति चेत् । तदर्थसारूप्यंव्यभि965 चारि, द्विचन्द्र
केशोण्डूकज्ञानाद्याकारस्यार्थमन्तरेणापि भावात् । (३२०)

अथ सोनुभवः क्वास्य

अथानुभाव्याभावे सोऽनुभवः प्रत्यात्मवेद्योऽस्य ज्ञानस्य न कर्म्मणि व्यवस्थाप
नीयः । न हि कर्मरहिता क्रिया क्वचिदस्ति ।

अत्राह (।)

तदेवेदं विचार्यते ।

यदुच्यते व्यवहर्तृ भिरिदमनेनानुभूयते इति तदेवेदमस्माभिर्व्विचार्यते । ज्ञानं
स्वप्र
काशमुपलभ्यते प्रकाशश्चोच्यत इत्ययुक्तं ।

42b
  1. अन्तर्ब्बहिस्तीर्थ्या दूषिता(ः।) प्रमाद्वयं प्रमेयद्वैविध्यादुक्तं प्रत्यक्षलक्षणञ्च ।
    सौत्रान्तिकप्रमाणं सारूप्यं बाह्योर्थः प्रमेयोधिगतिः फलं व्यवस्थाप्याधुना विज्ञप्तौ
    प्रमाणफलव्यवस्थां निर्दिदिक्षुः स्वसम्वित्तिः फलञ्चात्र तद्रूपो ह्यर्थनिश्चय इति
    सम्वित्तिं व्याख्यातुमाह सौत्रान्तिकं ।

  2. अतिव्याप्त्या ।