216

यच्चार्थसारूप्यमनुभवनिबन्धनमुक्तं तदप्यसम्भवीति दर्शयन्नाह (।)

सरूपयन्ति तत् केन स्थूलाभासञ्च तेऽणवः ॥ ३२१ ॥

ते परस्परं भिन्ना अणवः तज्ज्ञानं स्थूलाभासं स्थूलाकारं केन रूपेण सरूप
यन्ति966
 । यदणुस्वरूपमस्थूलमस्ति न तत् ज्ञानारूढं । यच्च ज्ञानारूढं स्थौल्यं नाणुषु
तदस्ति । (३२१)

तन्नार्थरूपता तस्य सत्यांर्थाव्यभिचारिणी ।
तत्सम्वेदनभावस्य न समर्था प्रसाधने ॥ ३२२ ॥

तस्मात्तुल्यज्ञानस्य नार्थरूपताऽस्ति । सत्यां वार्थरूपतायां व्यभिचारिणी सा
द्विचन्द्रज्ञानादिषु । ततश्च तत्संवेदनभावस्यार्थसंवेदनत्वस्य प्र
साधने
षु साऽर्थ
रूपता न समर्था । न केवलादर्थसारूप्यादर्थसंवेदनत्वं येन व्यभिचारः स्यात्(।)
किन्तर्हि सारूप्यतदुत्पत्तिभ्यां(।) ते च द्विचन्द्रज्ञानादीनां न स्तः । चन्द्रद्वयस्याभावात्
तदुत्पत्तेरयोगात् । (३२२)

एतदेवाह (।)

तत्सारूप्यतदुत्पत्ती यदि सम्वेद्यलक्षणम् ।
सम्वेद्यं स्यात् समानार्थं विज्ञानं समनन्तरम् ॥ ३२३ ॥

तेन ग्राह्येण सारूप्यं तस्मादुत्पत्तिः स्वसम्वेद्यस्य लक्षणं यदि संमतं तदापि
समन967न्तरं ज्ञानमुत्तरज्ञानेन समानार्थं समानग्राह्यं संवेद्यं स्यात् । तत्सरूप
तदुत्पत्त्योः संभवात् । (३२३)

ख. दृश्यदर्शने प्रत्यासत्तिविचारः

स्यादेतत् (।)

इदं दृष्टं श्रुतम्वेदमिति यत्रावसायधीः ।
स तस्यानुभवः;

सा
रूप्यतदुत्पत्तिमत्त्वेपीदं दृष्टं श्रुतम्वे968दमिति यत्रावसायधीरुत्पद्यते तस्य
सोऽनुभवो
नान्यस्य । न च समनन्तरप्रत्यये दृष्टश्रुताद्यवसायो भवति तन्न
ग्राह्योऽसौ ।

अत्राह (।)

सैव प्रत्यासत्तिर्व्विचार्यते ॥ ३२४ ॥
  1. अवयवी सौन्त्रान्तिकेनैव निरस्तः ।

  2. पूर्व्वानुभूतस्मरणं ।

  3. स्मार्त्तेनेदं प्रयोगः ।