109

यत्किञ्चिदुदयात्मकं (२८६) तत्सर्वं निरोधधर्मकमित्यादावागमवाक्येऽनेकधा स्वभावादिलिङ्गजमनेकप्रकारमनुमानं दुश्यते ।

b. कथं पुनरनेनानुमानमुक्तमित्याह (।)

अनुमानाश्रयो लिङ्गमविनाभावलक्षणम् ॥ २८७ ॥
व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत् स्फुटम् ॥

अनुमानस्याश्रयः कारणं लिङ्गम्वक्तव्यम
नुमाननिर्देशार्थमन्यथाऽशक्यत्वात् ।

किं लक्षणमित्याह (।) अविनाभावः साध्याव्यभिचारित्वं तल्लक्षणं यस्य
तत्तथा । (२८७) स चाविनाभावो लिङ्गं लक्षणं हेतोरुदयधर्मकत्वस्य साध्येन निरोधधर्मकत्वेन व्याप्तेः प्रदर्शनात् यत्किञ्चिदुदयधर्मकं तत्सर्व्वं निरोधधर्म- कमि 537त्यादिना स्फुटः प्रव्यक्तो दर्शित (:।)

इत्यनुमानप्रामाण्यनिर्देशोपि भगवदुपज्ञमेव (।) तदेवं भगवानेव प्रमाणभूत
स्तायी मुमुक्षुभिरुपास्यो नेतर इति
दर्शनार्थमा चा र्ये ण तस्य स्तुतिरुक्तेति युक्तं ॥

आचार्य म नो र थ न न्दि कृतायां प्रमाणावर्त्तिकवृत्तौ प्रथमः परिच्छेदः ॥

द्वितीयः परिच्छेदः538

प्रत्यक्षम्

  1. महावग्गे १।१।८

  2. द्रष्टव्यं परिशिष्टं ।५