इदमम्लानमालाया लग्नं स्तनतटे तव ।
छाद्यतामुत्तरीयेण नवं नखपदं सखि ॥ २८७ ॥

सखि ! तवाद्यापि अम्लाना प्रत्यग्रा परिणयोत्सवनिवेशिता माला कुसुमदामानि यस्या इत्यम्लानमालायाः । अन्ये तु पुरुषायितपरिश्रमेण म्लानमालत्वेऽपि अम्लानमालाया इति विशेषणमुपहासपरम् इति व्याचक्षते । स्तनस्य तटे प्रदेशे लग्नं व्यवस्थितं नखपदमिदं दृश्यमानं मयूरपदकशशप्लुतकादिरूपं90 नवमभिनवमार्द्रं छाद्यतां संव्रियतामुत्तरीयेण संव्यानेन । किमेवमतित्वरितम् । आनन्दिताः सखि ! वयम् । साधु कुतम् । अत्रानुचितार्थदर्शनविभावात् कृतो हासाख्यो भावः समुद्रिक्तरूपो हास्यरसतामागतः । काव्यशोभाकरमिदं विज्ञेयम् ॥

  1. वात्स्यायनीये कामसूत्रे २. ४. १९-२०