अंशुकानि प्रवालानि पुष्पं हारादिभूषणम् ।
शाखाश्च मन्दिराण्येषां चित्रं नन्दनशाखिनाम् ॥ २८८ ॥

एषां नन्दने उद्यान शाखिनाम् अंशुकानि वस्त्राणि प्रवालानि पल्लवानि हारादि च भूषणमलङ्कारः पुष्पम् । आदिशब्देनाङ्गदकुण्डलादिपरिग्रहः । शाखाश्च विचित्रसंनिवेशविशेषाः । मन्दिराणि प्रासादाः । [अ]हो चित्रमिदमपूर्वमिदं दृष्टम् ! इह विस्मयो नाम भावः परिस्फुटीभूतोऽद्भुतरसतामासेवत इति वेदितव्यम् ॥