इदं मघोनः कुलिशं धारासन्निहितानलम् ।
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ २८९ ॥

मघोनः शक्रस्य कुलिशं वज्रमिदं दृश्यते । धारासु कोटिषु सन्निहितो व्यवस्थितोऽनलोऽग्निरस्येति धारासन्नि79a हितानलम् । यस्य कुलिशस्य स्मरणं किमु दर्शनम् ? दैत्यानामसुराणामन्तर्वत्न्यो याः स्त्रियस्तासामतिभयग्रस्तानां गर्भाणां पाताय नाशार्थं कल्पते सम्पद्यते । यस्य स्मरणादप्यसुरस्त्रीणां गर्भाः पतन्ति तदिदं कुलिशमिति167 प्रकृतम् । अत्र भयाख्यो भावः समुद्भूतो भयानकरसरूपेण तिष्ठन्नलङ्कारः स्मृत इत्यवसेयम् ॥