79b इत्याद्यूर्जस्वीत्यवज्ञेयमवगन्तव्यमिति ॥

॥ इति ऊर्जस्वि ॥
अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्वये ।
यत्प्रकारान्तराख्यानं पर्यायोक्तं तदीदृशम् ॥ २९३ ॥

इष्टमभिमतमर्थं कञ्चित्प्रियसमागमादिलक्षणं साक्षादञ्जसा वाचकव्यापारेण अनाख्याय अप्रतिपाद्य तस्यैवेष्टस्यार्थस्य सिद्धये निष्पत्त्यर्थं प्रकारान्तरस्य तत्मिद्ध्यनुगुणस्य अन्यस्यार्थस्याख्यानम् आख्यायतेऽनेनेति वाक्यं तादृशम् इति अनूद्य तदीदृशं वचनं पर्यायोक्तमिष्टं मनीषिभिरिति विधिः ॥

तदुदाहरति—

दशत्यसौ परभृतः सहकारस्य मञ्जरीम् ।
तमहं वारयिष्यामि युवाभ्यां स्वैरमास्यताम् ॥ २९४ ॥

परभृतः कोकिलोऽसावयं सहकारस्य सम्बन्धिनीं मञ्जरीं कलिकां दशति भिनत्ति । तमहं परभृतं वारयिष्यामि गत्वा, युवाभ्यां दम्पतीभ्यां स्वैरं स्वतन्त्रम्