तदुदाहरति—

दशत्यसौ परभृतः सहकारस्य मञ्जरीम् ।
तमहं वारयिष्यामि युवाभ्यां स्वैरमास्यताम् ॥ २९४ ॥

परभृतः कोकिलोऽसावयं सहकारस्य सम्बन्धिनीं मञ्जरीं कलिकां दशति भिनत्ति । तमहं परभृतं वारयिष्यामि गत्वा, युवाभ्यां दम्पतीभ्यां स्वैरं स्वतन्त्रम्169 आस्यतां स्थीयताम् । अलं मदपेक्षयेति ॥