रत्नभित्तिषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः ।
ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ ३००

पद्मरागादिरत्नविकारा भित्तयः कुड्यानि रत्नभित्तयस्तासु संक्रान्तैरुदितैः प्रतिबिम्बानां प्रतिशरीराणां शतैर्वृतः परिक्षिप्तो लङ्केश्वरो [रा]वणः आञ्जनेयेन हनूमता सीतान्वेषणार्थ तत्र गतेनायं रावणः, प्रतिबिम्बान्येतानीति तत्त्वतः सम्यग् ज्ञातो171 निर्धारितः कृच्छ्राद्यत्नेन निपुणं निरूपयता न झटित्येवेति भूतिमहत्त्वमनतिशयमुक्तं गृहाण्यपि रत्नमयानि इति ॥