चन्दनं चन्द्रिका मन्दो गन्धवाही च दक्षिणः ।
सेयमग्निमयी सृष्टिः शीता किल परान् प्रति ॥ ३०३ ॥

चन्दनं मलयजं चन्द्रिका ज्योत्स्ना मन्दो मृदुर्गन्धवाही पवनो दक्षिण इति यदेतत् सेयमीदृशी सृष्टिः स्रष्टुरग्निमयी दहनस्वभावा अस्माकम् [कृते] । परान् प्रति172 अन्येषां किलेयं सृष्टिः शीताह्लादकरी । किलशब्देन93 श्रुतगम्यतां शीततायाः सूचयति । दुष्टताया एवानुभवगम्यत्वात् । विरहविप्लुतचित्तः कश्चित्कामुकः कथयतीति ॥

  1. मयि शीतेति मुद्रितपुस्तकेषु । शीता किलेति रत्नश्रियः । एष एव वादिजङ्घालाद्यभिमतः पाठः ।