81b यावस्थाभावित्वान्मण्डलं बिम्बमस्येति रक्तमण्डलः । नृपतिस्तु रक्तमनुरक्तं स्निग्धं मण्डलममात्यादिप्रकृतिवृन्दं यस्येति रक्तमण्डलः । लोकस्य हृदयं जनस्य मनः प्रीतियोगेन हरति रञ्जयति । चन्द्रो मृदुभिः शीतैः करैः किरणैर्हरति । नृपतिस्तु मृदुभिरनुद्वेजनीयैः करैरुचितषड्भागादिस्वभावैः हरति । इति श्लिष्टमभिन्नपदं भङ्गेन विना यथावस्थानमुभयत्र पदयोजनादिति ॥